Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

भजे भारतम्


सदाज्ञानविध्वंसकारी मनोज्ञ:,
समालोक्यते यत्र वाणी-विहार:।
विधत्ते स्वमित्रं च य: प्राणिमात्रं,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ १॥

कुटुम्बं धरित्री दया यस्य मित्रं,
मनुष्यत्वसेवा यदीयोऽस्ति धर्म:।
असत्यं च शत्रु: समस्तेऽपिलोके,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ २॥

स्वकीयां बुभुक्षां पिपासां नियम्य,
सदा रक्षिता येन भीता: प्रपन्ना:।
यमाहुर्विदग्धास्तथा शान्तिदूतं,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ ३॥

न मम्लौ यदीयं मुखं नि:स्वतायाम्,
विमूढं च चित्तं च वित्तोपलभे।
सदा दानशीलश्च यो याचकेभ्यो,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ ४॥

कला कालिदासस्य बाणस्य वाणी,
रवीन्द्रस्य गीतिर्विवेकस्य वाणी।
लता-तानसेन-स्वरा यत्र मुग्धा:,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ ५॥

अतीतं भविष्यत्तथा वर्तमानं,
जगत्प्रेरणादायकं वै यदीयम्।
चतुर्वर्गसिद्धिं दिशन् य: प्रसिद्धो,
भजेऽहं मुदा भारतं तं स्वदेशम्॥ ६॥

-डॉ. रमाकान्त शुक्ल