Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

वेदवाणीं नुम:


पश्य देवस्य काव्यं यदास्तेऽमृतं
यज्जराबाधितं नो भवेज्जातुचित्।
अस्य संज्ञास्ति वेद: सदा पावनीं,
वेदवाणीं नुमो वेदवाणीं नुम:॥ १॥

अस्ति माता मदीया धरेयं तथै,
वास्म्यहं तत्सुतस्तत्सपर्यापर:।
घोषणेयं यदीयास्ति तां पावनीं,
वेदवाणीं नुमो वेदवाणीं नुम:॥ २॥

राष्ट्रमास्तां सुपुष्टं समृद्धं सदा,
त्यागभोगौ सखायौ भवेतां तथा।
देशनेयं यदीयास्ति तां पावनीं,
वेदवाणीं नुमो वेदवाणीं नुम:॥ ३॥

वारिवाह: सुकाले समागच्छतात्,
सन्तुगावश्च पुष्टा: रामस्तास्तथा।
मार्गणेयं यदीयास्ति तां पावनीं,
वेदवाणीं नुमो वेदवाणीं नुम:॥ ४॥

मा जलानां तरुणां च हिंसा कुरु
द्युतखेलां परित्यज्य कर्षं कुरु।
मानवं या दिशन्ती, श्रुतिं तां मुदा,
वेदवाणीं नुमो वेदवाणीं नुम:॥ ५॥

‘‘नैकधर्मास्तथानेकवाचो नरा,
मातरं भूमिमेनां सदा रक्षत।’’
राष्ट्रियां वैश्विकीमेकतां तन्वतीं,
वेदवाणीं नुमो वेदवाणीं नुम:॥ ६॥

-डॉ. रमाकान्त शुक्ल