Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

जय भारत जननी


गंगा पुनाति भालं रेवा कटिप्रदेशम्। 
वन्दे सदा स्वदेशम् एतादृशं स्वदेशम्॥

काशी प्रयाग मथुरावृन्दाटवीविशाला:।
द्वारावतीसुकाञ्चीविदिशादितीर्थमाला:॥
सम्भूष्यन्ति कामं यस्य प्रशान्तवेषम्।
वन्दे सदा स्वदेशम् एतादृशंस्वदेशम्॥ १॥

सलिलं सुधामधुरितं पवनोऽपि गन्धवाही।
चरितं विकल्पकलितं धर्मो दयावगाही॥
यत्प्रांगणं शबलितं कौतूहलैरशेषम्।
वन्दे सदा स्वदेशम् एतादृशं स्वदेशम्॥ २॥

गायन्ति यस्य देवाश्शुभगीतकानि नित्यम्।
सर्वे भवन्तु सुखिनो यस्यैतदेव कृत्यम्॥
अभयप्रदोपदेशा: शमयन्ति पापलेशम्।
वन्दे सदा स्वदेशम् एतादृशं स्वदेशम्॥ ३॥

अचलो नु देवताऽऽत्मा वसुधाऽपि रत्नगर्भा।
कुलिशायते यदस्थि प्रचुरं वनी सुदर्भा॥
केचिन्नमन्ति गिरिजां केचिच्च शालुवेशम्।
वन्दे सदा स्वदेशम् एतादृशं स्वदेशम्॥ ४॥

अद्यापि यस्य नीतिर्विस्मापयत्यनल्पम्।
उद्घोष्य विश्वशान्तिं भावञ्च मित्रकल्पम्॥
वन्दे ध्वजं त्रिवर्णं वन्देऽगृहीतकेशम्।
वन्दे सदा स्वदेशम् एतादृशं स्वदेशम्॥ ५॥

-अभिराज डॉ. राजेन्द्र मिश्र