Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

संस्कृतं बोधकं भारतं भूतले


रत्नगर्भा धरा सुस्मिता श्यामला
दिव्यतीर्थास्तटा: पर्वता: सिन्धव:
निर्झरा: वाटिकाश्चात्र देवालया:
भव्यमेतत्प्रियं भारतं भूतले ॥१॥

वेदशास्त्राणि साहित्यकाव्यानि वा
यत्र यच्छन्ति लोकाय सत्प्रेरणम्
रम्यरामायणं श्रीमहाभारतं
राष्ट्रमेतद्वरं भारतं भूतले ॥ २॥

यत्र देवी सती शारदा जानकी
चानुसूया शिवा द्रौपदी पद्मिनी
सन्ति सर्वा इमा: वत्सला: मातर:
शक्तियुक्तं शिव भारतं भूतले ॥ ३॥

रामकृष्णौ हरी वर्धमानो जिनो
गौतम: शंकर: पाणिनिर्नानक:
श्री दयानन्द साधुश्च देशे-भवन
देशिकानामिदं भारतं भूतले॥ ४॥

भारतीया: स्वभावेन शान्तिप्रिया:
ज्ञानविज्ञानसेवारता: कर्मठा:
मानवी भावना भासते संस्कृतौ
सत्यसंशोधकं भारतं भूतले।॥ ५॥

-आचार्य राधाकृष्ण मनोडी