Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

विज्ञान गीतम्


भारत राष्ट्रे परमर्षीणां विज्ञानं विजयताम्,
विज्ञानं विजयताम्।

पांचभौतिकं रहस्यजातं ऋतम्भराप्रज्ञया वीक्षितम्
निगमागम मन्त्रेषुसंचितं पुरातनं यत् यत् सनातनम् ॥ १॥
पुनरपि विद्योतताम्।

अन्तरिक्षगतभगणज्ञानं, जलनिधितलगतसृष्टिज्ञानम्
परमाणूनामन्तज्र्ञानं, सकललोकहितसुखार्थमनिशम्॥ २॥
भुवने प्रकाशताम्।

कणादसुश्रुतपतंजलीनां, ब्रह्मगुप्तभास्करादिकानाम्
ज्ञाननिधीनां विबुधवराणां, सत्यसनातनतत्वदर्शिनाम् ॥ ३॥
परम्परा वर्धताम्।

भारतस्य यत् जगत्गुरुपदं अनादिसिद्धं भूषणास्पदम्
राष्ट्रमण्डले पूजनास्पदं विद्याव्रतपालनैरखण्डम् ॥ ४॥
पुनरपि संस्थाप्यताम्।