Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

हिमगिरे: शृंगम्


हिमगिरे: शृंगम् देवनदीं गंगाम्
मनसि निधाय हि अनुभवाम्
अनुपममुत्तुंगं भावमनुपममुत्तुंगम्॥

दिव्य-सनातन-संस्कृति:
यतो हि वेदपुराणानि।
हिन्दोरुन्नत्यवनत्यो:
सदृशनिऽगिरिशिखराणि।
भीरुमनस्स्वपि धीरस्वभावं
जनयेयुर्हिमभवनानि ॥ हिमगिरे:॥

तं सुरलोकमतिक्रम्य
अवतीर्णा या भागीरथी।
भारतमातु: संगेन
पुण्या जाता भाग्यवती।
हिन्दूदेशे प्रतिजनमनस:
पावनकारिणी पुण्यवती ॥ हिमगिरे:॥

पराजयोऽपि सोपानं
धैर्य विजयस्य निदानम्
गच्छतु दु:खित-बन्धुभ्यो
वक्तुं धैर्य-समाधानम्।
मातु: गौरवपरिरक्षायै
निष्ठं तनुहृद्धनप्राणम् ॥ हिमगिरे:॥

-श्री नारायणभट्ट: