Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

भारतधरणीयं मामजननीयम्

भुवमवतीर्णा नाकस्पर्धिनी
भारतधरणीयं, मामकजननीयम्॥
शिरसि हिमालय-मुकुट-विराजिता
पादेजलधिजलेन परिप्लुता
मध्ये गंगापरिसरपूता
भारतधरणीयं, मामकजननीयम् ॥ भुवमवतीर्णा॥

काश्मीरेषु च वर्षति तुहिनम्
राजस्थाने प्रदहति पुलिनम्
मलयस्थाने वाति सुपवन:
भारतधरणीयं, मामकजननीयम् ॥ भुवमवतीर्णा॥

नानाभाषि-जनाश्रय-दात्री
विविध-मतानां पोषणकत्र्री
नानातीर्थ-क्षेत्रसावित्री
भारतधरणीयं,मामकजननीयम् ॥ भुवमवतीर्णा॥

पुण्यवतामियमेव हि नाक:
पुण्यजनानां रुद्रपिनाक:
पुण्यपराणामाश्रयलोक:
भारतधरणीयं, मामकजननीयम् ॥भुवमवतीर्णा॥

-श्री जि. महाबलेश्वरभट्टः