Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

जय भारत जननी


भाति मे भारतम्, भाति मे भारतम्।
भूतले भाति मेऽनारतं भारतम् ।। ध्रुवकम्।।
मानवामानितं दानवाबाधितं
निर्जराराधितं सज्जनासाधितम्।
पण्डितै: पूजितं पक्षिभि: कूजितं
भूतले भाति मेऽनारतं भारतम्।। (१)

यस्य संदृश्य संदृश्य शोभा नवा
यस्य संस्मृत्य संस्मृत्य गाथा नवा:।
रोमहर्षो नृणां जायते वै सतां
भूतले भाति तन्मामकं भारतम्।। (२)

यच्च विश्रामभूमिर्मतं प्राणिनां
यस्य चित्ते प्रभ्तोऽवकाशस्तथा।
यत्र चागत्य गन्तुं न कोऽपीच्छुको
भूतले भाति तन्मामकं भारतम्।। (३) 

पण्डितैर्योद्धभिर्वाणिजै: कार्मिकै:
शस्त्रिभि: शास्त्रिभिवर्णिभिर्गोहिभि:।
वानप्रस्थैश्च संन्यासिभिर्मण्डितं
भूतले भाति मेऽनारतं भारतम्।। (४)