Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

वीरताया धरा


राष्ट्ररक्षाविधौ यास्ति काष्ठा परा
वन्द्यते सा मया वीरताया धरा,

स्वाभिमानादृते नास्ति किञ्चित्प्रियं देशसेवाविधौ दीयेत जीवनम्
गौरवायैव देशस्य यैरर्प्यते स्वं मनः, स्वा तनुः धनं सन्ततम्।

वीरपुत्राप्रसूः धीरता निर्भरा
वन्द्यते सा मया वीरताया धरा

यत्रा राणाप्रतापस्य पादध्वनिः मातृभूः वक्षसि स्पन्दते सर्वदा
यत्रा हममीरदेवस्य शस्त्राच्छटा दिक्षु विद्योतते सर्वदा मोददा

शत्राविध्वंसयज्ञेषु बद्धादरा
वन्द्यते सा मया शूरताया धरा,

यत्रा भक्तिस्वरूपा हि मीरा पपौ कृष्णप्रेमामृतं, ब्रह्मसायुज्यदम्
पाययन्ती सुधा भक्तिसर्घैंतिभिः पावयन्तीस्थिता या हि भूमण्डलम्

श्रीहरेः प्रेमपीयूषपाने रता
वन्द्यते सा मया भक्तिपूर्णधरा

संस्कृतिर्भारतीया सदा पाल्यते संस्कृतं जीवनञ्चापि संधार्यते
धर्मकर्मान्विता यत्समाजप्रथा विश्रुता विश्वमञ्चे यदीया कथा

– डॉ. इच्छाराम द्विवेदी ‘प्रणव’