Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

जयतु जननी


जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्।
जयतु जम्बू-द्वीपमखिलं सुन्दरं धामामृतम्।
पुण्यभुवनं भारतम्॥

धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती।
रत्नगर्भा कामधेनु: कल्पवल्ली भास्वती।
विन्ध्य-भूषा सिन्धु-रशना शिखा-हिमगिरि शर्मदा।
रम्य-गंगा-यमुनया सह महानद्यथ नर्मदा।
कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालंकृतम्॥ जयतु…॥

आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता।
एक-मातु: सुता: सर्वे भाति दिव्या भव्यता।
यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता।
तथाप्येका ह्याद्वितीया राजते जातीयता।
ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम्॥ जयतु…॥

आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम्।
योग-भोग-त्याग-सेवा-शान्ति-सुगुणै: पुष्कलम्।
यत् त्रिरंग ध्वजं विदधत् वर्षमार्षं विजयते।
सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते।
मानवानां-प्रेमगीतं विबुध-हृदये झंकृतम्॥ जयतु…॥

-हरेकृष्णमेहेर: