Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

मृदपि च चन्दनम्


मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।

यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥

हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराज:
धेनुर्माता परमशिवा॥

नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा॥ ॥ मृदपि॥

भाग्यविधायि निजार्जितकर्म
यत्र श्रम: श्रियमर्जयति।
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी

गंगाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी॥ ॥ मृदपि॥

यत्र हि नैव स्वदेहविमोह:
युद्धरतानां वीराणाम्।
यत्र हि कृषक: कार्यरत: सन्
पश्यति जीवनसाफल्यम्

जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा॥ ॥ मृदपि॥

-श्री जर्नादन हेगडे