Rashtriya Chetna Ke Swar - राष्ट्रीय चेतना के स्वर

अमृतस्य पुत्रा वयम्


अमृतस्य पुत्रा वयं
सबलं सदयं नो हृदयम्॥

गतमितिहासं पुनरुन्नेतुं
युवसंघटनं नवमिह कर्तुम्॥
भारतकीर्तिं दिशि दिशि नेतुं
दृढसंकल्पा विपदि विजेतुम्॥१॥

ऋषिसन्देशं जगति नयेम
सत्त्वशालिनो मनसि भवेम।
कष्टïसमुद्रं सपदि तरेम
स्वीकृतकार्यं न हि त्यजेम॥२॥

दीनजनानां दु:खविमुक्तिं
महतां विषये निर्मलभक्तिम्॥
सेवाकार्ये सन्ततशक्ति
सदा भजेम भगवति रक्तिम्॥३॥

-गु० गणपय्यहोऴळ